१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.32. अध्यायः 032
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या व्यासंप्रति स्वस्मिन्दुर्वासःप्रसादेन सूर्यात्कर्णस्योत्पत्तिकथनपूर्वकं स्वस्य तद्दिदृक्षानिवेदनम्॥ 1 ॥ व्यासेन कुन्तींप्रति हेतूपन्यासेन तत्प्रयुक्तदोषशङ्कानिरसनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
कुन्त्युवाच।
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम॥ 16-32-1(98030)
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः।
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्॥ 16-32-2(98031)
शौचने त्वागसस्त्यागैः शुद्धेन मनसा तथा।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन॥ 16-32-3(98032)
स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः।
अवश्यं ते ग्रहीतव्यमिति मां सोब्रवीद्वचः॥ 16-32-4(98033)
ततः शापभयाद्विप्रमवोचं पुनरेव तम्।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः॥ 16-32-5(98034)
धर्मस्य जननी भद्रे भवित्री त्वं शुभानने।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि॥ 16-32-6(98035)
इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम्।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति॥ 16-32-7(98036)
अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्॥ 16-32-8(98037)
स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्॥ 16-32-9(98038)
द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च।
तताप लोकानेकेन द्वितीयेनागमत्स माम्॥ 16-32-10(98039)
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह।
गम्यतामिति तं चाहं प्रणम्य सिरसाऽवदम्॥ 16-32-11(98040)
स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम्।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव॥ 16-32-12(98041)
तमहं रक्षती विप्रं शापादनपकारिणम्।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्॥ 16-32-13(98042)
ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान्।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्॥ 16-32-14(98043)
ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्॥ 16-32-15(98044)
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः॥ 16-32-16(98045)
स मया सूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः।
तन्मां दहति विप्रर्षे यथा सुविदितं तव॥ 16-32-17(98046)
यदि पापमपापं वा यदेतद्विवृतं मया।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि॥ 16-32-18(98047)
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ।
तं चायं लभतां काममद्यैव मुनिसत्तम॥ 16-32-19(98048)
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्थ माम्॥ 16-32-20(98049)
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै॥ 16-32-21(98050)
सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये।
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा॥ 16-32-22(98051)
मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः॥ 16-32-23(98052)
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥ ॥ 16-32-24(98053)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-32-3 आगसस्त्यागैरपराधत्यागैः॥ 7-32-22 सघर्षेण रत्या॥


|